हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Sudarshana Kavacham 3 – श्री सुदर्शन कवचम्
अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायण ऋषिः श्रीसुदर्शनो देवता गायत्री छन्दः दुष्टं दारयतीति कीलकं, हन हन द्विष इति बीजं, सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥
ऋष्यादि न्यासः –
ओं नारायण ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं दुष्टं दारयतीति कीलकाय नमः हृदये ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ।
ओं सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ।
करन्यासः –
ओं नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ।
ओं गायत्रीछन्दसे नमः तर्जनीभ्यां नमः ।
ओं दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ।
ओं सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल करपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं नारायणऋषये नमः हृदयाय नमः ।
ओं गायत्रीछन्दसे नमः शिरसे स्वाहा ।
ओं दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ।
ओं सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ।
ओं सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ।
अथ ध्यानम् –
सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् ।
ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ १ ॥
कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् ।
सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ २ ॥
अथ मन्त्रः –
ओं ह्रां ह्रीं ह्रूं नमो भगवते भो भो सुदर्शनचक्र दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥
अथ कवचम् –
सुदर्शनमहामन्त्रं वल्लभेन प्रकाशितम् ।
वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च ।
यन्त्रमध्ये निरूप्यं च चक्राकारं च लिख्यते ॥ १ ॥
उत्तरागर्भरक्षी च परीक्षितहिते रतः ।
ब्रह्मास्त्रवारणं चैव भक्तानां भयनाशनम् ॥ २ ॥
वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ।
वैष्णवानां हितार्थाय चक्रं धारयते हरिः ॥ ३ ॥
पीताम्बरः परब्रह्म वनमाली गदाधरः ।
कोटिकन्दर्पलावण्यो गोपीनां प्राणदायकः ॥ ४ ॥
श्रीवल्लभः कृपानाथो गिरीन्द्रः शत्रुमर्दनः ।
दावाग्निदर्पहर्ता च गोपीभयनिवारकः ॥ ५ ॥
गोपालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ।
विद्वज्जनप्रकाशी च रामकृष्णजगन्मयः ॥ ६ ॥
गोगोपिकाशताकीर्णो वेणुवादनतत्परः ।
कामरूपी कलावांश्च कामिनां कामदो विभुः ॥ ७ ॥
मन्मथो मथुरानाथो माधवो मकरध्वजः ।
श्रीधरः श्रीकरः श्रीशः श्रीनिवासः सतां गतिः ॥ ८ ॥
भूतीशो भूतिदो विष्णुर्भूधरो भूतभावनः ।
सर्वदुःखहरो वीरो दुष्टदानवनाशनः ॥ ९ ॥
श्रीनृसिंहो महाविष्णुः महादित्यश्च तेजसः ।
वादिनां दयया नित्यं प्रणवो ज्योतिरूपकः ॥ १० ॥
भानुकोटिप्रकाशी च निश्चितार्थस्वरूपकः ।
भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः ॥ ११ ॥
हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्ण स्वरूपकः ।
भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् ॥ १२ ॥
कालमृत्युः यमाहूतो भूतप्रेतो न दृश्यते ।
पिशाचा राक्षसाश्चैव हृदिरोगाश्च दारुणाः ॥ १३ ॥
भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ।
नाटकं चेटकं चैव छलं छिद्रं न दृश्यते ॥ १४ ॥
अकाले मरणं तस्य शोकदुःखं न लभ्यते ।
सर्वविघ्नाः क्षयं यान्ति रक्ष मां गोपिकाप्रिय ॥ १५ ॥
भयं दावाग्नि चोराणां विग्रहे राजसङ्कटे ।
व्यालव्याघ्रमहाशत्रुवैरिबन्धो न लभ्यते ॥ १६ ॥
आधिव्याधिहरं चैव ग्रहपीडाविनाशनम् ।
सङ्ग्रामे च जयं तस्मात् ध्यायेद्देवं सुदर्शनम् ॥ १७ ॥
इमान् सप्तदशश्लोकान् यन्त्रमध्ये लिखेत्तु यः ।
वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८ ॥
सुदर्शनमिदं यन्त्रं लभते जयमङ्गलम् ।
सर्वपापहरं कृष्ण त्वामहं शरणं गतः ॥ १९ ॥
इति श्रीमद्वल्लभाचार्यचरण विरचितं श्री सुदर्शन कवचम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.